Sloka
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः
तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १
ப⁴வானி ஸ்தோதும் த்வாம் ப்ரப⁴வதி சதுர்பி⁴ர்ன வத³னை:
ப்ரஜானாமீஶானஸ்த்ரிபுரமத²ன: பஞ்சபி⁴ரபி ।
ந ஷட்³பி⁴: ஸேனானீர்த³ஶஶதமுகை²ரப்யஹிபதி:
ததா³ன்யேஷாம் கேஷாம் கத²ய கத²மஸ்மின்னவஸர: ॥ 1॥
Bhavani sthothum thwam prabhavathi chatur binna vadanai,
Prajaanaa meesana tripuramadhana pancha bhirapi,
Na shadibhar senaaneer dasa satha mukhai rapyahipathi,
Sthadanyesham kesham kadhaya kadamasminnavasara. 1
Audio Link
https://drive.google.com/file/d/1p9zaTCYnChjnUVVlxDmx282-uudQBMpJ/view?usp=drivesdk
https://drive.google.com/file/d/1iHlviytDIV4mp8OpYl2elUR7JEKIzE4B/view?usp=drivesdk
Padacheda (Word Separation)
भवानि / स्तोतुम् / त्वाम् / प्रभवति / चतुर्भिः / न / वदनैः / प्रजानाम् / ईशानाः / त्रिपुर-मथनः / पञ्चभिः / अपि / न / षड्भिः / सेनानीः / दश-शत-मुखैः / अपि / अहि-पतिः / तदा / अन्येषाम् / केषाम् / कथय / कथम् / अस्मीन / अवसरः //
Anvaya (Prose Order)
हे भवानि ! प्रजानाम् ईशः (ब्रह्मा) चतुर्भिः वदनैः त्वां स्तोतुं न प्रभवति; त्रिपुरमथनः (शिवः) पञ्चभिः अपि (वदनैः) न (प्रभवति); सेनानीः (कार्तिकेयः) षड्भिः (वदनैः) न (प्रभवति); अहिपतिः (आदिशेषः) दशशतमुखैः अपि न (प्रभवति); तदा अन्येषाम् केषाम् अस्मिन् (विषये) अवसरः (अस्ति)? कथम्? कथय।
Meaning of the Words
भवानि – bhavāni – O Bhavānī
स्तोतुम् त्वाम् – stotum tvām – to praise you
प्रभवति – prabhavati – is capable
चतुर्भिः न वदनै – caturbhiḥ na vadanaiḥ – not with four faces (Brahmā)
प्रजानाम् ईशाना – prajānām īśāna – lord of all beings
त्रिपुर-मथन – tripura-mathanaḥ – destroyer of Tripura (Śiva)
पञ्चभि अपि – pañcabhir api: even with five
न षड्भिः – na ṣaḍbhiḥ – not with six
सेनानी – senanīḥ – general (Skanda/Ṣaṇmukha)
दश-शत-मुखैmअहि-पति अपि – dasa shath mukhe ahipathi api – even the thousand headed Vasuki (Adi Shesha)
तदा अन्येषाम् – tadaa anyeshaam – and all others
केषाम् अस्मिन् (विषये) अवसरः (अस्ति)? कथम्? कथय। – kesham asmin avasara katham kathaya – tell me, what scope or chance do other ordinary people have?
தமிழாக்கம்
அயனும் முப்புரமெரி அரனும் அறுமுகனும்
சிரம் தசநூறானும் மற்றோர் அனைவரும்
போற்ற இயலாதிருக்கையிலே, எளியோருக்கு
எட்டுமா உன்துதி பவானியே! 1
Meaning
O Goddess Bhavani! When Brahma (the creator) with his four faces, Shiva (the destroyer of Tripura) with his five faces, Kartikeya (the army commander) with his six faces, and even Adi Shesha (the king of serpents) with his thousand mouths cannot adequately praise You, then tell me, what scope or chance do other ordinary people have?
God Bless
Leave a Reply